|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.26. अध्यायः 026
अथानुगीतापर्व 2
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति कर्तृकर्मादिप्रतिपादकब्राह्मणदंपतिसंवादानुवादः॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
ब्राह्मण उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
चातुर्होत्रविधानस्य विदानमिह यादृशम्॥ 14-26-1(93126)
तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते।
शृणु मे गदतो भद्रे रहस्यमिदमुद्भुतम्॥ 14-26-2(93127)
करणं कर्म कर्ता च मोक्ष इत्येव भामिनि।
चत्वार एते होतारो यैरिदं जगदावृतम्॥ 14-26-3(93128)
होतॄणां साधनं चैव शृणु सर्वमशेषतः।
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम्।
मनो बुद्धिश्च सप्तैते ज्ञेयाः कारणहेतवः॥ 14-26-4(93129)
गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः।
मन्तव्यमवबोद्धव्यं सप्तैते कर्महेतवः॥ 14-26-5(93130)
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः।
मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः॥ 14-26-6(93131)
स्वगुणान्भक्षयन्त्येते गुणवन्तः शुभाशुभान्।
असन्तो निर्गुणाश्चैते सप्तैते मोक्षहेतवः॥ 14-26-7(93132)
विदुषां बुध्यमानानां स्वंस्वं स्थानं यथाविधि।
गुणास्ते देवता भूत्वा सततं भुञ्जते हविः॥ 14-26-8(93133)
`अदन्हवींषि चान्नानि ममत्वेन विहन्यते।'
आत्मार्थे पाचयन्नन्नं ममत्वेनोपहन्यते॥ 14-26-9(93134)
अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम्।
स चान्नं हन्ति तं चान्नं स हत्वा हन्यते पुनः॥ 14-26-10(93135)
हन्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः।
न चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः॥ 14-26-11(93136)
मनसा मन्यते यच्च यच्च वाचा निगद्यते।
श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते॥ 14-26-12(93137)
स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत्।
मनस्येतानि संयम्य हवींष्येतानि सर्वशः॥ 14-26-13(93138)
गुणवत्पावको मह्यं दीप्यतेऽन्तःशरीरगः।
योगयज्ञः प्रवृत्तो मे ज्ञानं ब्रह्ममयो हविः। प्राणस्तोत्रोऽपानशस्त्रः सर्वत्यागसुदक्षिणः॥ 14-26-14(93139)
कर्ताऽनुमन्ता ब्रह्मात्मा होताऽध्वर्युः कृतस्तुतिः
ऋतं प्रशास्ता तच्छस्त्रमपवर्गोऽस्य दक्षिणा॥ 14-26-15(93140)
ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः।
नारायणाय देवाययदविन्दन्पशून्पुरा॥ 14-26-16(93141)
तत्र सामानि गायन्ति तत्र चाहुर्निदर्शनम्।
देवं नारायणं भीरु सर्वात्मानं निबोध तम्॥ ॥ 14-26-17(93142)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षडिंशोऽध्यायः॥ 26 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-26-11 अद्यमन्नमदन्नह्नि पुनरिति क.पाठः॥ 7-26-14 दीप्यते हव्यवाहन इति क.ट.थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|